🍁॥ नवदुर्गास्तोत्रम्॥🍁
👉देवी शैलपुत्री ।
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखरा।म्
वृषारूढां शूलधरां शैलपुत्री यशस्विनीम् ॥
👉देवी ब्रह्मचारिणी ।
दधाना करपद्माभ्यामक्षमाला कमण्डलूम् ।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥
👉देवी चन्द्रघण्टेति ।
पिण्डजप्रवरारूढा चन्दकोपास्त्रकैर्युता ।
प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥
👉देवी कूष्मांडा ।
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥
👉देवीस्कन्दमाता ।
सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥
👉देवीकात्यायनी ।
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥
👉देवीकालरात्रि ।
एकवेणी जपाकर्णपूर नग्ना खरास्थिता ।
लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥
वामपादोल्लसल्लोहलताकण्टकभूषणा ।
वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥
👉देवीमहागौरी ।
श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः ।
महागौरी शुभं दद्यान्महादेवप्रमोददा ॥
👉देवीसिद्धिदात्रि ।
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥
✍ आप को नवरात्री की सुभकामना
*जयमाताजी*
No comments:
Post a Comment